Mantras after Aarti

कर्पूरगौरं करुणावतारं

संसारसारम् भुजगेन्द्रहारम् ।

सदावसन्तं हृदयारविन्दे

भवं भवानीसहितं नमामि ॥

मङ्गलम् भगवान विष्णुः, मङ्गलम् गरुड़ध्वजः। 


मङ्गलम् पुण्डरी काक्षः, मङ्गलाय तनो हरिः॥


॥ अथ: मंत्रपुष्पांजलि : ॥

ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् |

ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः || 1 ||

ॐ राजाधिराजाय प्रसह्यसाहिने ।

नमो वयं वैश्रवणाय कुर्महे |

स मे कामान्कामकामाय मह्यम् ।

कामेश्वरो वैश्रवणो ददातु |

कुबेराय वैश्रवणाय ।

महाराजाय नमः || 2 ||

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।


शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥

त्वमेव माता च पिता त्वमेव

त्वमेव बंधुश्च सखा त्वमेव ।

त्वमेव विद्या द्रविणं त्वमेव

त्वमेव सर्वं मम देव देव ।

कायेन वाचा मनसेंद्रियैर्वा

बुध्यात्मना वा प्रकृतेः स्वभावात् ।

करोमि यद्यत् सकलं परस्मै

नारायणायेति समर्पयामि ॥

ॐ सह नाववतु ।


सह नौ भुनक्तु ।


सह वीर्यं करवावहै ।


तेजस्वि नावधीतमस्तु मा विद्विषावहै ।


ॐ शान्तिः शान्तिः शान्तिः ॥